महाभाष्यकारस्य प्रदर्शितवचनमनुसृत्य अष्टाध्याय्याः तादृश्याः वृत्त्या आवश्यकता अनुभूता यस्यां सूत्रेण सह उदाहरणं, प्रत्युदाहरणं, वाक्याध्याहारः इत्येत्सर्वं भवेदिति धिया महर्षिपाणिनिप्रणीताम् अष्टाध्यायीमधिकृत्य ‘अष्टाध्यायीचन्द्रिका’ इतिनामको वृत्तिग्रन्थो विरचितो । अस्मिन् वृत्तिग्रन्थे मध्यभागे मूलसूत्रम्, तस्य वृत्तिः, उदाहरणं च विद्यते, सूत्रार्थबोधनाय अपेक्षामनुसृत्य सूत्रस्थपदानाम्, उदाहरणानां च विवरणमपि प्रस्तुतमस्ति। यत्र प्रत्युदाहरणेन सूत्रस्यार्थः स्फुटतरः भवति, तत्र प्रत्युदाहरणमपि प्रदर्शितम्। सहैव सूत्रार्थकरणे सहायकानाम्, प्रसिद्धप्रयोगसाधकानां वार्तिकानामपि समावेशः कृतो विद्यते। व्याख्यनस्याधोभागे मूलसूत्रात् कस्य कस्य पदस्य अनुवृत्तिर्भवति, इत्यस्य निर्देशो विद्यते। तत्र अनुवृत्तेरवधिश्च तत्र सूत्रसंख्यारूपेण निर्दिष्टोऽस्ति । सूत्रस्योर्ध्वभागे अनुवृत्तानां
PlayStore